|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.82. अध्यायः 082
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रत्यमात्यपरीक्षार्थं कालकवृक्षीयोपाख्यांनकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-82-0x(5553)(67977)
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत।
यः कश्चिद्वेदयेदर्थं राज्ञा रक्ष्यः स मानवः॥ 12-82-1(67978)
ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः।
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर॥ 12-82-2(67979)
श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत्।
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत॥ 12-82-3(67980)
राजकोशस्य गोप्तारं राजकोशविलोपकाः।
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः॥ 12-82-4(67981)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह॥ 12-82-5(67982)
कोसलानामाधिपत्यं संप्राप्तं क्षेमदर्शिनम्।
मुनिः कालकवृक्षीय आजगोमेति नः श्रुतम्॥ 12-82-6(67983)
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः।
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः॥ 12-82-7(67984)
अधीये वायसीं विद्यां शंसन्ति मम वायसाः।
अनागतमतीतं च यच्च संप्रति वर्तते॥ 12-82-8(67985)
इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह।
सर्वेषां राजयुक्तानां दुष्कृतं परिदृष्टवान्॥ 12-82-9(67986)
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः।
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः॥ 12-82-10(67987)
ततः स काकमादाय राजानं द्रष्टुमागमत्।
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः॥ 12-82-11(67988)
स स्म कौसल्यमागम्य राजामात्यमलंकृतम्।
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्॥ 12-82-12(67989)
असौ चासौ च जानीते राजकेशस्त्वया हृतः।
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्॥ 12-82-13(67990)
तथाऽन्यानपि स प्राह राजकोशहरांस्तदा।
न चास्य वचनं किंचिदनृतं श्रूयते क्वचित्॥ 12-82-14(67991)
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह।
तमतिक्रम्य सुप्तं तु निशि काकमपोथयन्॥ 12-82-15(67992)
वायसं तु विनिर्भिन्नं दृष्ट्वा वाणेन पञ्जरे।
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्॥ 12-82-16(67993)
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्।
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम्॥ 12-82-17(67994)
मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मनाऽऽगतः।
ह्रियन्ते हि महार्थाश्च पुरुषे विक्रमत्यपि॥ 12-82-18(67995)
संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः।
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात्॥ 12-82-19(67996)
तथाविधस्य सुहृदा क्षन्तव्यं संविजानता।
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता॥ 12-82-20(67997)
तं राजा प्रत्युवाचेदं यत्किंचिन्मां भवान्वदेत्।
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्॥ 12-82-21(67998)
ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि।
करिष्यामि हि ते वाक्यं यन्मां विप्र प्रवक्ष्यसि॥ 12-82-22(67999)
मुनिरुवाच। 12-82-23x(5554)
विद्वान्नयानपायांश्च भयाख्यातॄन्भयानि च।
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागतः॥ 12-82-23(68000)
प्रागेवोक्तं तु दोषोऽयमाचार्यैर्नृपसेवनम्।
अगतेः कुगतिर्ह्येषा या राज्ञा सहजीविका॥ 12-82-24(68001)
आशीविषैश्च तस्याहुः संगमं यस्य राजभिः।
बहुमित्रांश्च राजानो बह्वभित्रास्तथैव च॥ 12-82-25(68002)
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम्।
तथाऽस्य राजतो राजन्मुहुर्तादागतं भयम्॥ 12-82-26(68003)
नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ।
न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता॥ 12-82-27(68004)
प्रमादात्स्खलते बुद्धिः स्खलतो नास्ति जीवितम्।
अग्निं दीप्तमिवासीदेद्राजानप्नुपशिक्षितः॥ 12-82-28(68005)
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्।
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः॥ 12-82-29(68006)
दुर्व्याहृताच्छङ्कमानो दुःस्थिताद्दुरनुष्ठितात्।
दुरासदाद्दुर्वृजिनादिङ्गिताद्ध्यायितादपि॥ 12-82-30(68007)
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः।
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत्॥ 12-82-31(68008)
इति राजन्यमः प्राह वर्तते च तथैव तत्।
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः॥ 12-82-32(68009)
ददात्यत्मद्विधोऽऽमात्यो बुद्धिसाहाय्यमापदि।
वायसस्त्वेष मे राजन्नन्तकायाभिसंहितः॥ 12-82-33(68010)
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः।
हिताहितांस्तु बुद्ध्येथा मापरोक्षमतिर्भव॥ 12-82-34(68011)
ये त्वादानपरा एव वसन्ति भवतो गृहे।
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्॥ 12-82-35(68012)
यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम्।
आन्तरैराभेसंधाय राजन्सिद्ध्यति नान्यथा॥ 12-82-36(68013)
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम्।
तैर्हि मे संधितो बाणः काके निपतितः प्रभो॥ 12-82-37(68014)
छझना मम काकश्च गमितो यमसादनम्।
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेन चक्षुषा॥ 12-82-38(68015)
बहुनक्रझषग्राहां तिमिंगिलगणैर्युताम्।
काकेन वालिशेनेमामतार्षमहमापगाम्॥ 12-82-39(68016)
स्थाण्वश्मकण्टकवर्तीं सिंह व्याघ्रसमाकुलाम्।
दुरासदां दुष्प्रसहां गुहां हैमवतीमिव। 12-82-40(68017)
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते।
राजदुर्गावतरणे नोपायं पण्डिता विदुः॥ 12-82-41(68018)
गहनं भवतो राज्यमन्धकारं तमोन्वितम्।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया॥ 12-82-42(68019)
अतो नायं शुभो वासस्तुल्ये सदसती इह।
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः॥ 12-82-43(68020)
न्यायतो दुष्कृते घातः सुकृते न कथनम्।
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्वुधः॥ 12-82-44(68021)
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति।
तयोपमामिमां मन्ये वागुरां सर्वधातिनीम्॥ 12-82-45(68022)
मधुप्रपातो हि भवान्भोजनं विषसंयुतम्।
असतामिव ते भावो वर्तते न सतामिव॥ 12-82-46(68023)
आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव॥ 12-82-47(68024)
दुर्गतीर्था बृहत्कूला कावेरी चोरसंयुता।
नदी मधुरपानीया यथा राजंस्तथा भवान्।
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि॥ 12-82-48(68025)
यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान्।
ततस्तं संवृणोत्येव तमतीत्य च वर्धते॥ 12-82-49(68026)
तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः।
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय॥ 12-82-50(68027)
त्वया चैव कृता राजन्भवता परिपालिताः।
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम्॥ 12-82-51(68028)
उषितं शङ्कमानेन प्रमादं परिरक्षता।
अन्तः सर्प इवागारे वीरपत्न्या इवालये।
शीलं जिज्ञासमानेन राज्ञः साहसजीविनः॥ 12-82-52(68029)
कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः।
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः॥ 12-82-53(68030)
विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम।
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम्॥ 12-82-54(68031)
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्।
भवतोऽर्थकृदित्येवं मयि ते दोषमादधन्।
विद्यते कारणं नान्यदिति मे नात्र संशयः॥ 12-82-55(68032)
न हि तेषामहं द्रोग्धा तत्तेषां द्रोहवद्गतम्।
अरेर्हि दुर्हृदाद्भेयं भग्नपृष्ठादिवोरगात्॥ 12-82-56(68033)
राजोवाच। 12-82-57x(5555)
भूयसा परिहारेण सत्कारेण च भूयसा।
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम॥ 12-82-57(68034)
ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे।
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम्॥ 12-82-58(68035)
यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम्।
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम्॥ 12-82-59(68036)
मुनिरुवाच। 12-82-60x(5556)
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु।
ततः कारणमाज्ञाय पुरुषंपुरुषं जहि।
एकदोषा हि बहवो मृद्गीयुरपि कण्टकान्॥ 12-82-60(68037)
`अर्थे सर्वं जगद्वद्धमर्थेनैव निबध्यते।
अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय॥ 12-82-61(68038)
एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय।
स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति॥ 12-82-62(68039)
सामपूर्वं च केषांचिद्भेदेन च परस्परम्।
वैरं कारय भूपाल पश्चाद्दण्डं प्रचोदय॥ 12-82-63(68040)
बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान्।
अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय॥' 12-82-64(68041)
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते॥ 12-82-65(68042)
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः।
स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः॥ 12-82-66(68043)
राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम्।
मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः।
पितुः सखा च भवतः संमतः सत्यसंगरः॥ 12-82-67(68044)
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते।
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया॥ 12-82-68(68045)
स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रो दिति॥ 12-82-69(68046)
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया।
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि॥ 12-82-70(68047)
भीष्म उवाच। 12-82-71x(5557)
ततो राजकुले नान्दी संजज्ञे भूयसा पुनः।
पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे॥ 12-82-71(68048)
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने।
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः॥ 12-82-72(68049)
हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम्।
तथा च कृतवान्राजा यथोक्तं तेन भारत॥ ॥ 12-82-73(68050)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्व्यशीतितमोऽध्यायः॥ 82॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-82-7 प्रवृत्त्यर्था अमात्यदोषदर्शने राजानं प्रवर्तयितुकामः॥ 12-82-9 परिपतन्परितो भ्रमन्। राजयुक्तानां राज्ञा तेषु तेषु कार्येषु नियुक्तानाम्। दुष्कृतं स्वामिद्रव्यापहाररूपं वापम्॥ 12-82-12 राजानमागम्य तत्समक्षमेवामात्यं प्राह। अमुत्रस्थाने त्वया इदं धनचौर्यं कृतमिति॥ 12-82-13 अनुगम्यतां आलोच्यताम्॥ 12-82-18,19 ह्रियन्त इति मित्रं त्वां संबुबोधयिपुरागत इति श्लोकद्वयभेकान्वयम्॥ 12-82-23 ज्ञात्वा पापानपापाभृत्यतस्ते भयानि चेति झ. पाठः॥ 12-82-29 नाहमस्मीति मत्वा जीवनाशं त्यक्त्वेत्यर्थः॥ 12-82-35 आदानपराः कोशलोप्तारः। मे मयि। तादृशैरभिसंहितमभिसंधिर्वैरं कृतम्। मदीयकाकहननादिति भावः॥ 12-82-36 आन्तरैः सूदादिभिः अभिसंधायाऽन्नदौ विषं प्रक्षेप्तव्यमिति स्नेहं कृत्वा। तेषामभीप्सितो भवद्विनाशः सिध्यति चाऽन्यथा न सिध्यति व। आयुःशेषे सतीति भावः॥ 12-82-37 तेषां त्वद्वैरिणाम् ॥ 12-82-39 इमां राजनीतिनदीम्। नक्रादितुल्यैरधिकारिपुरुषैर्व्याप्ताम्। बालिशेन स्वमृत्युं संपादयता विरुद्धलक्षणया तन्मरणान्मृतोऽस्मीति भावः॥ 12-82-41 अग्निना दीपेन आप्यं जलरूपम्॥ 12-82-42 गहनं कपटम्। अन्धकारमिव तमोन्वितं धर्माधर्मदर्शनशून्यम्॥ 12-82-52 उषितं मयेति शेषः॥ 12-82-53 जिज्ञासामेवाह कच्चिदिति॥ 12-82-54 रोचते भवानिति शेषः॥ 12-82-56 भेयं भेतव्यम्। भग्नपृष्ठात् पृष्ठभङ्गेन कोपितात्॥ 12-82-60 तेषामकस्मात् युगपच्च वधे दोषमाह एकेति। संहताः कण्टकानपि मृद्रीयुः किमुत मादृशान्मृदूनित्यर्थः॥ 12-82-68 पितरि त्वदीये संस्थिते मृते॥ 12-82-69 विभ्रमेत् अनाप्तेष्वाप्तबुद्धिं भवान्माकार्षीत्॥ 12-82-71 नान्दी मङ्गलपाठः। ततस्तस्मिन्मन्त्रिणि वृते सति॥ 12-82-72 कौसल्याय कौसल्यार्थे॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|